Thursday 27 March 2014

Surya Dwadash Naam - सूर्य द्वादश नाम

Surya Dwadash Naam - सूर्य द्वादश नाम



अथ सूर्य द्वादश नाम

आदित्य: प्रथमं नाम द्वितीयं तु विभाकर: ।
तृ्तीयं भास्कर: प्रोक्तं चतुर्थं च प्रभाकर: ।।


पंचम च सहस्त्रांशु षष्ठं चैव त्रिलोचन: ।
सप्तमं हरिदश्वश्च अष्टमं च विभावसु: ।।


नवमं दिनकृ्त प्रोक्तं दशमं द्वादशात्मक: ।
एकादशं त्रयोमूर्तीद्वादशं सूर्य एव च ।।


द्वादशैतानि नामानि प्रात:काले पठेन्नर: ।
दु:स्वप्ननाशनं सद्य: सर्वसिद्धि: प्रजायते ।।


आयुरारोग्यमैश्वर्य पुत्र-पौत्र प्रवर्धनम ।
ऎहिकामुष्मिकादीनि लभन्ते नात्र संशय: ।।



इति सूर्य द्वादश नाम


No comments:

Post a Comment