Monday, 21 April 2014

दशमहाविद्यास्तोत्रम् - Dus Mahavidya Stotra

दशमहाविद्यास्तोत्रम् - Dus Mahavidya Stotra





ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।
नमस्ते कालिके कालमहाभयविनाशिनि ॥१॥

शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥२॥

जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।
करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥३॥

हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥४॥

हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥५॥

मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥६॥

उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥७॥

श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥८॥

विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥९॥

श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥१०॥

त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥११॥

सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥१२॥

सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥१३॥

विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।
महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥१४॥

प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥१५॥

भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् ।
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥१६॥

त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥१७॥

कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।
षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥१८॥

सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।
प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥१९॥

इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥२०॥



इति दशमहाविद्यास्तोत्रं सम्पूर्णम् ।

Saturday, 12 April 2014

श्रीत्रिपुरसुन्दरी सुप्रभातम् - Shri Tripursundari Suprabhatam

श्रीत्रिपुरसुन्दरी सुप्रभातम् - Shri Tripursundari Suprabhatam


अथ श्रीत्रिपुरसुन्दरी सुप्रभातम्

श्रीसेव्य-पादकमले श्रित-चन्द्र-मौले
श्रीचन्द्रशेखर-यतीश्वर-पूज्यमाने।
श्रीखण्ड-कन्दुककृत-स्व-शिरोवतंसे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥१॥

उत्तिष्ठ तुङ्ग-कुलपर्वत-राज-कन्ये 
उत्तिष्ठ भक्त-जन-दुःख-विनाश-दक्षे ।
उत्तिष्ठ सर्व-जगती-जननि प्रसन्ने 
उत्तिष्ठ हे त्रिपुरसुन्दरि सुप्रभातम् ॥२॥

उत्तिष्ठ राजत-गिरि-द्विषतो रथात् त्वं 
उत्तिष्ठ रत्न-खचितत् ज्वलिताच्च पीठात्।
उत्तिष्ठ बन्धन-सुखं परिधूय शंभोः उत्तिष्ठ
विघ्नित-तिरस्करिणीं विपाट्य ॥३॥

यत्पृष्ठभागमवलम्ब्य विभाति लक्ष्मीः
यस्या वसन्ति निखिला अमराश्च देहे ।
स्नात्वा विशुद्धहृदया कपिला सवत्सा
सिद्धा प्रदर्शयितुमिह नस्तव विश्वरूपम् ॥४॥

आकर्ण्यतेऽद्य मदमत्त-गजेन्द्रनादः
त्वं बोध्यसे प्रतिदिनं मधुरेण येन ।
भूपालरागमुखरा मुखवाद्यवीणा
भेरीध्वनिश्च कुरुते भवतीं प्रबुद्धाम् ॥५॥

त्वां सेवितुं विविध-रत्न-सुवर्ण-रूप्य-
खाद्यम्बरैः कुसुम-पत्र-फलैश्च भक्ताः ।
श्रद्धान्विताः जननि विस्मृत-गृह्य-बन्धाः
आयान्ति भारत-निवासि-जनाः सवेगम् ॥६॥

जीवातवः सुकृतिनः श्रुतिरूपमातुः
विप्राः प्रसन्न-मनसो जपितार्क-मन्त्राः ।
श्रीसूक्त-रुद्र-चमकाद्यवधारणाय
सिद्धाः महेश-दयिते तव सुप्रभातम् ॥७॥

फालप्रकासि-तिलकाङ्क-सुवासिनीनां
कर्पूर-भद्र-शिखया तव दृष्टि-दोषम् ।
गोष्ठी विभाति परिहर्तुमनन्यभावा
हे देवि पङ्क्तिश इयं तव सुप्रभातम् ॥८॥

उग्रः सहस्र-किरणोऽपि करं समर्प्य 
त्वत्तेजसः पुरत एष विलज्जितः सन् ।
रक्तस्तनावुदयमेत्यगपृष्ठलीनः 
पद्मं त्वदास्यसहजं कुरुते प्रसन्नम् ॥९॥

नृत्यन्ति बर्हनिवहं शिखिनः प्रसार्य
गायन्ति पञ्चमगतेन पिकाः स्वरेण।
आस्ते तरङ्गतति-वाद्य-मृदङ्ग-नादः
तौर्यत्रिकं शुभमकृत्रिममस्तु तुभ्यम् ॥१०॥

संताप-पाप-हरणे त्वयि दीक्षितायां
संताप-हारि-शशि-पापहरापगाभ्याम् ।
कुत्रापि धूर्जटि-जटा-विपिने निलीनं
छिन्ना सरित् क्षयमुपैति विधुश्च वक्रः ॥११॥

भुक्त्वा कुचेल-पृतुकं ननु गोपबालः
आकर्ण्य ते व्यरचयत् सुहृदं कुबेरम् ।
व्याजस्य नास्ति तव रिक्त-जनादपेक्षा
निर्व्याजमेव करुणां नमते तनोषि ॥१२॥

प्राप्नोति वृद्धिमतुलां पुरुषः कटाक्षैः द्वन्द्वी 
ध्रुवं क्षयमुपैति न चात्र शङ्का।
मित्रस्तवोषसि पदं परिसेव्य वृद्धः
चन्द्रस्त्वदीय-मुखशत्रुतया विनष्टः ॥१३॥

सृष्टि-स्थिति-प्रलय-साक्षिणि विश्व-मातः
स्वर्गापवर्ग-फल-दायनि शंभु-कान्ते ।
श्रुत्यन्तखेलिनि विपक्ष-कठोर-वज्रे 
भद्रे प्रसन्न-हृदये तव सुप्रभातम् ॥१४॥

मातः स्वरूपमनिशं हृदि पश्यतां ते
को वा न सिद्ध्यति मनश्चिर-कांक्षितार्थः ।
सिद्ध्यन्ति हन्त धरणी-धन-धान्य-धाम-
धी-धेनु-धैर्य-धृतयः सकलाः पुमार्थाः ॥१५॥

इति श्रीत्रिपुरसुन्दरी सुप्रभातम्

Friday, 11 April 2014

श्री ललिता त्रिपुरसुन्दरी अपराध क्षमापन स्तोत्रम् - Shri Lalita Tripursundari Apradh Kshamapan Stotram

श्री ललिता त्रिपुरसुन्दरी अपराध क्षमापन स्तोत्रम्



श्री ललिता त्रिपुरसुन्दरी अपराध क्षमापन स्तोत्रम्

कञ्जमनोहर पादचलन्मणि नूपुरहंस विराजिते
कञ्जभवादि सुरौघपरिष्टुत लोकविसृत्वर वैभवे ।
मञ्जुळवाङ्मय निर्जितकीर कुलेचलराज सुकन्यके
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१॥

एणधरोज्वल फालतलोल्लस दैणमदाङ्क समन्विते
शोणपराग विचित्रित कन्दुक सुन्दरसुस्तन शोभिते ।
नीलपयोधर कालसुकुन्तल निर्जितभृङ्ग कदम्बके
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥२॥

ईतिविनाशिनि भीति निवारिणि दानवहन्त्रि दयापरे
शीतकराङ्कित रत्नविभूषित हेमकिरीट समन्विते ।
दीप्ततरायुध भण्डमहासुर गर्व निहन्त्रि पुराम्बिके
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥३॥

लब्धवरेण जगत्रयमोहन दक्षलतान्त महेषुणा
लब्धमनोहर सालविषण्ण सुदेहभुवापरि पूजिते ।
लङ्घितशासन दानव नाशन दक्षमहायुध राजिते
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥४॥

ह्रीम्पद भूषित पञ्चदशाक्षर षोडशवर्ण सुदेवते
ह्रीमतिहादि महामनुमन्दिर रत्नविनिर्मित दीपिके ।
हस्तिवरानन दर्शितयुद्ध समादर साहसतोषिते
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥५॥

हस्तलसन्नव पुष्पसरेक्षु शरासन पाशमहाङ्कुशे
हर्यजशम्भु महेश्वर पाद चतुष्टय मञ्च निवासिनि ।
हंसपदार्थ महेश्वरि योगि समूहसमादृत वैभवे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥६॥

सर्वजगत्करणावन नाशन कर्त्रि कपालि मनोहरे
स्वच्छमृणाल मरालतुषार समानसुहार विभूषिते ।
सज्जनचित्त विहारिणि शङ्करि दुर्जन नाशन तत्परे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥७॥

कञ्जदळाक्षि निरञ्जनि कुञ्जर गामिनि मञ्जुळ भाषिते
कुङ्कुमपङ्क विलेपन शोभित देहलते त्रिपुरेश्वरि ।
दिव्यमतङ्ग सुताधृतराज्य भरे करुणारस वारिधे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥८॥

हल्लकचम्पक पङ्कजकेतक पुष्पसुगन्धित कुन्तले
हाटक भूधर शृङ्गविनिर्मित सुन्दर मन्दिरवासिनि ।
हस्तिमुखाम्ब वराहमुखीधृत सैन्यभरे गिरिकन्यके
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥९॥

लक्ष्मणसोदर सादर पूजित पादयुगे वरदेशिवे
लोहमयादि बहून्नत साल निषण्ण बुधेश्वर सम्युते ।
लोलमदालस लोचन निर्जित नीलसरोज सुमालिके
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१०॥

ह्रीमितिमन्त्र महाजप सुस्थिर साधकमानस हंसिके
ह्रीम्पद शीतकरानन शोभित हेमलते वसुभास्वरे ।
हार्दतमोगुण नाशिनि पाश विमोचनि मोक्षसुखप्रदे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥११॥

सच्चिदभेद सुखामृतवर्षिणि तत्वमसीति सदादृते
सद्गुणशालिनि साधुसमर्चित पादयुगे परशाम्बवि ।
सर्वजगत् परिपालन दीक्षित बाहुलतायुग शोभिते
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१२॥

कम्बुगळे वर कुन्दरदे रस रञ्जितपाद सरोरुहे
काममहेश्वर कामिनि कोमल कोकिल भाषिणि भैरवि ।
चिन्तितसर्व मनोहर पूरण कल्पलते करुणार्णवे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१३॥

लस्तकशोभि करोज्वल कङ्कणकान्ति सुदीपित दिङ्मुखे
शस्ततर त्रिदशालय कार्य समादृत दिव्यतनुज्वले ।
कश्चतुरोभुवि देविपुरेशि भवानि तवस्तवने भवेत्
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१४॥

ह्रीम्पदलाञ्चित मन्त्रपयोदधि मन्थनजात परामृते
हव्यवहानिल भूयजमानक खेन्दु दिवाकर रूपिणि ।
हर्यजरुद्र महेश्वर संस्तुत वैभवशालिनि सिद्धिदे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१५॥

श्रीपुरवासिनि हस्तलसद्वर चामरवाक्कमलानुते
श्रीगुहपूर्व भवार्जित पुण्यफले भवमत्तविलासिनि ।
श्रीवशिनी विमलादि सदानत पादचलन्मणि नूपुरे
पालयहे ललितापरमेश्वरि मामपराधिनमम्बिके ॥१६॥


॥इति श्री ळलिता त्रिपुरसुन्दरी अपराध क्षमापन स्तोत्रम्  सम्पूर्णम् ॥

Tuesday, 8 April 2014

तारास्तोत्रम् - Tara Stotram

तारास्तोत्रम् - Tara Stotram




श्रीगणेशाय नमः


मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे ।
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले खङ्गं ।
चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१॥

वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि ।
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे ।
सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥२॥

खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले ।
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।।
सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज-।
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥३॥

मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके ।
हुम्फट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः ।।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा ।
परा वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥४॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां ।
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान् ।
मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते ॥५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते ।
देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः ।।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे ।
तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ॥६॥

त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न ते ।
भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः ।।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो ।
डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले ॥७॥

लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां ।
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः ।
क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः ॥८॥

ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥९॥

लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत्
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।
कीर्तिं कान्तिं च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात् ॥१०॥

॥इति श्रीनीलतन्त्रे तारास्तोत्रं सम्पूर्णम् ॥

डाकिनी स्तोत्रम् - Dakini Stotram

डाकिनी स्तोत्रम् - Dakini Stotram





आनन्दभैरवी उवाच

अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।
यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥१॥

अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।
छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥२॥

तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।
आदौ शृणु महामन्त्रं भेदिन्याः परं मनुम् ॥३॥

आदौ कालींसमुत्कृत्य ब्रह्ममन्त्रं ततः परम् ।
देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् ॥४॥

ततो हि मम गृह्णीयात् प्रापय द्वयमेव च ।
चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥५॥

भेदिनी मम शब्दान्ते अकालमरणं हर ।
हर युग्मं स्वं महापापं नमो नमोऽग्निजायया ॥६॥

एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।
आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् ॥७॥

शाम्भवीति ततश्चोक्त्वा ब्राह्मणीति पदं ततः ।
मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥८॥

छेदिनीपदमुद्धृत्य मम मानसशब्दतः ।
महान्धकारमुद्धृत्य छेदयेति द्विधापदम् ॥९॥

स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः ।
एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥१०॥

तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।
ॐ घोररूपिणिपदं सर्वव्यापिनि शङ्कर ॥११॥

महायोगिनि मे पापं शोकं रोगं हरेति च ।
विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥१२॥

स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः ।
खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् ॥१३॥

डाकिनीं ब्रह्मणा युक्तां मूले ध्यात्वा पुनः पुनः ।
जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥१४॥

ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् ।
ब्रह्ममन्त्रप्रसादेन जडो योगी न संशयः ॥१५॥

प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम् ।
तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥१६॥

सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।
सत्त्वं गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥१७॥

डाकिनीमन्त्रराजञ्च शृणुष्व परमेश्वर ।
यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥१८॥

यो जपेत् डाकिनीमन्त्रं चैतन्या कुण्डली झटित् ।
अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥१९॥

मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् ।
डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥२०॥

पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् ।
मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥२१॥

मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः ।
जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥२२॥

सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।
पूजयित्वा मूलपद्मे चित्तोपकरणेन च ॥२३॥

ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।
पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि ॥२४॥

शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।
तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥२५॥

तत् स्तोत्रं शृणु योगार्थं सावधानावधारय ।
एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥२६॥

ब्रह्माणं हंससङ्घायुतशरणवदावाहनं देववक्त्र ।
विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम् ।।
वागीशं वाग्गतिस्थं मतिमतविमलं बालार्कं चारुवर्णम् ।
डाकिन्यालिङ्गितं तं सुरनरवरदं भावयेन्मूलपद्मे ॥२७॥

नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनी।
रक्तां गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।।
मूलाम्भोरुहमध्यदेशनिकटे भूविम्बमध्ये प्रभा ।
हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाह्लादिनीम् ॥२८॥

विद्यावास्तवमालया गलतलप्रालम्बशोभाकरा।
ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।।
नानाकारविकारसारकिरणां कर्त्री विधो योगिना।
मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥२९॥

या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी ।
मां पातु पिरयकामिनी भवविधेरानन्दसिन्धूद्भवा ।।
मे मूलं गुणभासिनी प्रचयतु श्रीः कीतीचक्रं हि मा ।
नित्या सिद्धिगुणोदया सुरदया श्रीसंज्ञया मोहिता ॥३०॥

तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा ।
राका राशषसादशा शशिघटा लोलामला कोमला ।।
सा माता नवमालिनी मम कुलं मूलाम्बुजं सर्वदा ।
सा देवी लवराकिणी कलिफलोल्लासैकबीजान्तरा ॥३१॥

धात्री धैर्यवती सती मधुमती विद्यावती भारती ।
कल्याणी कुलकन्यकाधरनरारूपा हि सूक्ष्मास्पदा ।।
मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिना।
नौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् ॥३२॥

कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनी।
नित्यां तां गुणपण्डितां प्रचपलां मालाशतार्कारुणाम् ।।
विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरा।
ब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्गताम् ॥३३॥

गीतार्थानुभवपिरयां सकलया सिद्धप्रभापाटलाम् ।
कामाख्यां प्रभजामि जन्मनिलयां हेतुपिरयां सत्क्रियाम् ।
सिद्धौ साधनतत्परं परतरं साकाररूपायिताम् ॥३४॥

ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् ।
ब्रह्माणं ब्रह्मबीजं रजनिजयजनं यागकार्यानुरागम् ॥३५॥

शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् ।
सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि ॥३६॥

एतत्सम्बन्धमार्गं नवनवदलगं वेदवेदाङ्गविज्ञम् ।
मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् ॥३७॥

भावाख्यं भावसिद्धं जयजयदविधिं ध्यानगम्यं पुराणम्
पाराख्यं पारणायं परजनजनितं ब्रह्मरूपं भजामि ॥३८॥

डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् ।
पठनाद् धारणान्मन्त्री योगिनां सङ्गतिर्भवेत् ॥३९॥

एतत्पठनमात्रेण महापातकनाशनम् ।
एकरूपं जगन्नाथं विशालनयनाम्बुजम् ॥४०॥

एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् ॥४१॥


इति श्रीरुद्रयामले उत्तरतन्त्रे 
महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे 
षट्चक्रसिद्धिसाधने भैरवभैरवीसंवादे 
डाकिनी स्तोत्रं सम्पूर्णम् ॥पटलः ३०॥

Wednesday, 2 April 2014

विरह-ज्वर-विनाशकं ब्रह्म-शक्ति स्तोत्रम् - Virah - Jwar Vinashak Brahm Shakti Stotra


विरह-ज्वर-विनाशकं ब्रह्म-शक्ति स्तोत्रम् - Virah - Jwar Vinashak Brahm Shakti Stotra




।।श्रीशिवोवाच।।

ब्राह्मि ब्रह्म-स्वरूपे त्वं, मां प्रसीद सनातनि ।
परमात्म-स्वरूपे च, परमानन्द-रूपिणि ।।
ॐ प्रकृत्यै नमो भद्रे, मां प्रसीद भवार्णवे।
सर्व-मंगल-रूपे च, प्रसीद सर्व-मंगले ।।
विजये शिवदे देवि ! मां प्रसीद जय-प्रदे ।
वेद-वेदांग-रूपे च, वेद-मातः ! प्रसीद मे ।।
शोकघ्ने ज्ञान-रूपे च, प्रसीद भक्त वत्सले ।
सर्व-सम्पत्-प्रदे माये, प्रसीद जगदम्बिके ।।
लक्ष्मीर्नारायण-क्रोडे, स्रष्टुर्वक्षसि भारती ।
मम क्रोडे महा-माया, विष्णु-माये प्रसीद मे ।।
काल-रूपे कार्य-रूपे, प्रसीद दीन-वत्सले ।
कृष्णस्य राधिके भद्रे, प्रसीद कृष्ण पूजिते ।।
समस्त-कामिनीरूपे, कलांशेन प्रसीद मे ।
सर्व-सम्पत्-स्वरूपे त्वं, प्रसीद सम्पदां प्रदे ।।
यशस्विभिः पूजिते त्वं, प्रसीद यशसां निधेः ।
चराचर-स्वरूपे च, प्रसीद मम मा चिरम् ।।
मम योग-प्रदे देवि ! प्रसीद सिद्ध-योगिनि ।
सर्व-सिद्धि-स्वरूपे च, प्रसीद सिद्धि-दायिनि ।।
अधुना रक्ष मामीशे, प्रदग्धं विरहाग्निना ।
स्वात्म-दर्शन-पुण्येन, क्रीणीहि परमेश्वरि ।।


।।फल-श्रुति।।

एतत् पठेच्छृणुयाच्चन, वियोग-ज्वरो भवेत् ।
न भवेत् कामिनीभेदस्तस्य जन्मनि जन्मनि ।।




इस स्तोत्र का पाठ करने अथवा सुनने वाले को कभी प्रियतमा वियोग-पीड़ा नहीं होती और जन्म-जन्मान्तर तक कामिनी / पत्नी -भेद नहीं होता।

इस स्तोत्र का पाठ करने से निम्न लाभ होते हैं :-


  1. पारिवारिक कलह की शांति
  2. रोग या अकाल-मृत्यु भय का शमन 
  3. प्रणय सम्बन्धों में बाधाएँ आने पर


विधि :- 

अपनी इष्ट-देवता या भगवती गौरी का विविध उपचारों से पूजन करके उक्त स्तोत्र का पाठ करें
इच्छित फल कि प्राप्ति के लिये कातरता और समर्पण बहुत आवश्यक है।



विरह ज्वर नाशक पति स्तवन - Virah Jwar Nashak Pati Stawan / Stavan

विरह ज्वर नाशक पति स्तवन - Virah Jwar Nashak Pati Stawan / Stavan




बहुत से लोगों कि समस्याओं को देखकर और आधुनिक समाज के आकलन के पश्चात् मैं इस नतीजे पर पहुंचा कि आज के हमारे समाज में १०० में से ४० युग्म ऐसे हैं जो किसी न किसी प्रकार से वैचारिक मतभेद या किसी तीसरे पक्ष कि वजह से अपने हस्ते खेलते पारिवारिक जीवन में बहुत सी विषमताओं का शिकार होकर रह गए हैं - जिसकी वजह से हर पल कि घुटन और अनिश्चितता कि वजह से अपना शारीरिक और मानसिक संतुलन खोते चले जा रहे हैं और परिणाम ये होता है कि इन सब वजहों से पारिवारिक - सामाजिक और आर्थिक स्तर का ह्रास होता जा रहा है हालाँकि कुछ समय के बाद लोगों को अहसास होता है कि उन्होंने कितना गलत कदम उठाया था - लेकिन जब तक समझ में आता है तब तक बहुत देर हो चुकी होती है या फिर सब कुछ तहस - नहस हो चूका होता है - !


इसलिए सबसे पहले तो मेरी सलाह यही है आप सब लोगों को कि छोटी - मोटी वैचारिक भिन्नताओं को अपने रिश्ते पर इतना भरी न पड़ने दें कि वह आपके रिश्ते को ही खा जाये - और एक बात हमेशा अपने दिमाग में रखें कि अवैध रिश्तों कि उम्र और विश्वसनीयता बहुत कम होती है - चाहे स्त्री हो या पुरुष यदि वह अपने साथी को भूलकर आज आपकी तरफ आकर्षित हुआ है तो इस बात की क्या गारंटी है कि वह कल आपको छोडकर किसी और कि तरफ नहीं भागेगा -?


लेकिन इसके बावजूद भी यदि आप हालात का शिकार हो ही चुके / चुकी हैं तो आपके लिए एक तरीका है जिसे अपने जीवन में शामिल करके आप अपने खोये हुए सौभाग्य / प्रेम को वापस पा सकते हैं - !


पति-स्तवनम् - Pati Stawanam

नमः कान्ताय सद्-भर्त्रे, शिरश्छत्र-स्वरुपिणे ।
नमो यावत् सौख्यदाय, सर्व-देव-मयाय च ।।
नमो ब्रह्म-स्वरुपाय, सती-सत्योद्-भवाय च ।
नमस्याय प्रपूज्याय, हृदाधाराय ते नमः ।।
सती-प्राण-स्वरुपाय, सौभाग्य-श्री-प्रदाय च ।
पत्नीनां परनानन्द-स्वरुपिणे च ते नमः ।।
पतिर्ब्रह्मा पतिर्विष्णुः, पतिरेव महेश्वरः ।
पतिर्वंश-धरो देवो, ब्रह्मात्मने च ते नमः ।।
क्षमस्व भगवन् ! दोषान्, ज्ञानाज्ञान-विधापितान्।
पत्नी-बन्धो, दया-सिन्धो ! दासी-दोषान् क्षमस्व वै ।।


।। फल-श्रुति ।।

स्तोत्रमिदं महालक्ष्मि ! सर्वेप्सित-फल-प्रदम् ।
पतिव्रतानां सर्वासां, स्तोत्रमेतच्छुभावहम् ।।
नरो नारी श्रृणुयाच्चेल्लभते सर्व-वाञ्छितम् ।
अपुत्रा लभते पुत्रं, निर्धना लभते ध्रुवम् ।।
रोगिणी रोग-मुक्ता स्यात्, पति-हीना पतिं लभेत् ।
पतिव्रता पतिं स्तुत्वा, तीर्थ-स्नान-फलं लभेत् ।।






विधिः-

अ. विवाहित स्त्रियों के लिए जो अपने पति के साथ कभी मतभेद नहीं चाहती हैं एवं पति को परमेश्वर तुल्य मानती हैं :-

१. प्रातः काल उठाकर अपने दैनिक कार्यों से निवृत्त होकर स्नान करने के उपरांत धुले हुए वस्त्र धारण करके भक्ति पूर्वक पति को सुगन्धित जल से स्नान करवाकर स्वच्छ वस्त्र पहनाएं - तत्पश्चात आसन पर बैठकर उनके मस्तक पर चन्दन का तिलक लगाएं - गले में पुष्प माला पहनाएं - धुप दीप अर्पित करें - भोजन करवाकर - उन्हें शिव स्वरुप मानकर इस स्तोत्र का पाठ करें -!

ब. उन स्त्रियों के लिए जो पति को प्राणवत प्रेम करती हैं लेकिन उनके पति या तो उन्हें प्रेम नहीं करते या फिर किसी अन्य स्त्री के संपर्क में आ गए हैं :-

१. प्रातः काल उठाकर अपने दैनिक कार्यों से निवृत्त होकर स्नान करने के उपरांत धुले हुए वस्त्र धारण करके भक्ति पूर्वक पति के चित्र को सांकेतिक रूप से सुगन्धित जल से स्नान करवाकर स्वच्छ वस्त्र पहनाएं - तत्पश्चात आसन पर बैठकर उनके मस्तक पर चन्दन का तिलक लगाएं - गले में पुष्प माला पहनाएं - धुप दीप अर्पित करें - भोजन करवाकर - उन्हें शिव स्वरुप मानकर इस स्तोत्र का पाठ करें -!

स. कुवांरी कन्यायें जो मनोवांछित वर कि इच्छा रखती हैं :-

१. भगवान शिव को माता गौरी सहित उपरोक्त विधान से पूजा करने के बाद स्तोत्र का पाठ करें

ड. प्रेमी वर्ग कि लड़कियों के लिए :-

यदि आप किसी से प्रेम करती हैं किन्तु आपके माता - पिता या प्रेमी पक्ष के माता - पिता अथवा किसी अन्य व्यक्ति कि वजह से आपके सम्बन्धों में बाधा डाली जा रही है तो आप इस स्तोत्र के पाठ से उन सब बाधाओं को पार करके अपने मनोवांछित तक पहुँच सकती हैं -!






Tuesday, 1 April 2014

श्रीज्वालामुखीस्तोत्रम् - Shri Jwalamukhi Stotram



श्रीज्वालामुखीस्तोत्रम् - Shri Jwalamukhi Stotram

श्रीगणेशाय नमः 
श्रीभैरव उवाच :-

तारं यो भजते मातर्बीजं तव सुधाकरम् ।
पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥१॥

शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितं
सेन्दुं बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः ।
मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती
गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥२॥

शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदं
सबिन्द्वीन्दुं मन्दो यदि जपति बीजं तव प्रियम् ।
तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः
सुखमिन्द्रोद्याने स्वपिति स भवत्पूजनरतः ॥३॥

ज्वालामुखीति जपते तव नामवर्णान्
यः साधको गिरिशपत्नि सुभक्तिपूर्वम् ।
तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः
सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥४॥

पाशाम्बुजाभयधरे मम सर्वशत्रून्
शब्दं त्विति स्मरति यस्तव मन्त्रमध्ये ।
तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ
प्रक्षालयन्त्यरिवधूनयनाश्रुपाताः ॥५॥

भक्षयद्वयमिदं यदि भक्त्या साधको जपति चेतसि मातः ।
स स्मरारिरिव त्वत्प्रसादतस्त्वत्पदं च लभते दिवानिशम् ॥६॥

कूर्चबीजमनघं यदि ध्यायेत् साधकस्तव महेश्वरि योऽन्तः ।
अष्ट हस्तकमलेषु सुवश्यास्तस्य त्र्यम्बकसमस्तसिद्धयः ॥७॥

ठद्वयं तव मनूत्तरस्थितं यो जपेत्तु परमप्रभावदम् ।
तस्य देवि हरिशङ्करादयः पूजयन्ति चरणौ दिवौकसः ॥८॥

ॐ ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिसुदिनि ।
त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥९॥

उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते ।
वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥१०॥

सर्वसारमयि सर्वे सर्वामरनमस्कृते ।
सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥११॥

यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः
पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः ।
गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले सन्ततं
देवीं कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥१२॥

निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजेद्
विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् ।
दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा
देवः कुङ्कुमपीतगण्डयुगलः संक्रन्दनः क्रन्दति ॥१३॥

यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू-
रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् ।
दारिद्र्योरगदष्टलोकत्रितयीसञ्जिवनीं मातरं
देवीं तां हृदये शशाङ्कशकलाचूडावतंसा भजे ॥१४॥

आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां
लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः ।
वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः
पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥१५॥

हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे
शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः ।
कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति
तन्मातर्भुवने विचित्रमखिलं जाने भक्त्याः शिवे ॥१६॥

गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा
श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा ।
शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं
त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥१७॥

ज्वालामुखीस्तवमिमं पठते यदन्तः
श्रीमन्त्रराजसहितं विभवैकहेतुम् ।
इष्टप्रदानसमये भुवि कल्पवृक्षं
स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥१८॥





॥इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीज्वालामुखीस्तोत्रं सम्पूर्णम् ॥